Jataa Mani Text with commentary in Devanagari (जटा मणिः सव्याख्या)

Below is the text of jaṭā maṇi with commentary in Devanagari Script that has transliterated using Sri. Venkatesh’s excellent BhashaIME tool (https://sites.google.com/site/bhashaime/).

jaṭā maṇi is a lakṣaṇa grantha of the taittirīya śākha of kr̥ṣṇa yajurveda.

—————–

श्रीः

अथ जटामणिर्नाम लक्षणम्

ज्ञानानन्दमयं देवं निर्मलस्फटिकाकृतिम्

अधारं सर्वविद्यानां हयग्रीव मुपास्महे ||

मूलम्||

प्रातिशाख्यादि शास्त्रज्ञ स्सर्वशिक्षा विशारदः | सूक्ष्मबुद्धिस्समर्थोयस्सजटां वक्तुमहर्ति || १ ||

व्याख्यानम्||

ननु जटाध्ययनाधिकारी क इत्युक्ते उच्यते प्रातिशाख्यादीत्यनेन –  प्रातिशाख्यादि शास्त्रज्ञः‍आदि शब्दे न *‍नवशिक्षा पारीणः |सर्वशास्त्र विशारदः‍व्याकरणादि वेदाङ्ग विज्ञानवानित्यर्थः |सूक्ष्मबुद्धिः| समर्थः उच्चारण समर्थः सभाकम्पादि रहितश्चयः सजटां वक्तुमहर्ति जटापाठी भवितु महर्ति ||१ ||

 मूलम्||

जटांहित्वा विचित्रार्थामनुलोमादिकं वदन्|| सवै नरकमाप्नोति स्वरवर्णादिलोपिवत् || २ ||

तस्याः प्रमाणं प्रथमे प्रातिशाख्ये प्रपाठके| रेफादेशेऽपिशब्दाच्च नधामे त्यार्ष शब्दतः || ३ ||

 व्याख्यानम्||

ननु श्रौतस्मार्तेषु संहिताया एव उपयोगित्वात् संहितै वाध्येतव्या| ‍पदाध्ययनाभावे संहितावसान ज्ञानाभावात् प्रातिशाख्ये “अथादावुत्तरेविभागे”‍(प्रा १-३-१)‍इति पदंप्रति लक्षणस्य विद्यमानत्वाच्च पदमप्यध्येतव्यम् || “क्रमाद्ध्ययन सम्पन्नो देवत्वमधिगच्छति”‍ इति क्रमाद्ध्ययने फलाधिक्यात् “क्रमोद्वाभ्या मनुक्रम्य”‍ इति क्रमाद्ध्ययनं प्रति लक्षणस्य विद्यमानत्वाच्च क्रमो ऽप्यध्येतव्यः| ‍तथाच जटाध्ययने प्रमाणा भावात् कथं जटाध्येतव्येति शङ्कायां जटायाः प्रमाणमेवोच्यते तस्याः प्रमाण मित्यादिना|| तस्याः जटायाः प्रमाणं प्रातिशाख्ये प्रथम प्रश्ने रेफादेशे विसर्जनीयाधिकारे “इति परोऽपि” (प्रा १-८-१२) इति सूत्रस्थ ‘अपि’ शब्दात् “नधामा” (प्रा १-१०-१३) इत्यत्र आर्षशब्दतश्च विज्ञेय मित्यन्वयः|| “इति परोपि”‍इति सूत्रस्थापिशब्दः आवृत्परत्व मन्वादिशति| तथाच असावावृत्परो विसर्जनीयः‍इति परश्चेत् रेफमापद्यते इति| अत्र संहिताया मुदाहरणाभावात् जटायामेवोदाहरणं-यथा| इति श्श्रुत श्श्रुत रितीतिश्रुतः|  आवृत्पर इतिकिं| प्रहारावयोर्वैश्रित इति| अत्र आवृत्परत्वाभावात् तन्माभूदिति| एवंच इदं सूत्रं जटालक्षणमेव| तथाच जटाध्ययनं सिद्धं| हिंच ‘नधामा’ इत्यत्र आर्षग्रहणं पौरुषमाक्षिपति| तथाच नसंहिताव्यतिरिक्तं पदक्रमादिकं पौरुषेय मिति व्यवहारः|| किंच “ह्वारभाः” (प्रा १-८-८) इति सूत्रे अबिभर्ग्रहणस्य जटाया मेवोदाहरणं| पितर्ग्रहणस्यापिजटायामेव| यथा अबिभस्तन्तमबिभरबिभस्तम्| मरुतां पितः पितर्म्मरुताम्मरुतां पितः||  तथाच जटाध्ययने प्रमाण सिद्धिः || ३ ||

मूलम्||

जटायां पञ्चधासन्धि रार्षपौरुष भेदतः|आद्यन्तमार्षं विङ्ङेयं ‍शिष्टमन्यत्तु पौरुषम् || ४ ||

व्याख्यानम्||

ननु जटाध्ययने प्रमाणमुक्तं| जटाकीगृग्भूतेति शङ्काया मुत्तरमाह जटायामिति|| पञ्चधा सन्धिप्रकारो||

यथा|| वायव्यग्ग्ं श्वेतं, श्वेतग्ग्ं श्वेतं, श्वेतं वायव्यं, वायव्यं वायव्यं, वायव्यग्ग्ं श्वेतं||

भक्षा-अ-आ-भक्ष- भक्ष-भक्ष-भक्षा- इत्यादि||आद्यन्त सन्धिरार्ष संज्ञः अन्येसन्धयः अनार्षकाः || ४ ||

मूलम्||

त्रिक्रमेष्वष्टधा सन्धि र्द्वौद्वावाद्यन्तयोरपि| आर्षसंज्ञास्त एवात्र सन्धयोन्येत्व नार्षकाः || ५ ||

व्याख्यानम्||

ननु जटाकीदृग्भूतेत्युक्ते वङ्चसन्धि रेवजटेत्युक्ता तथासति त्रिक्रमस्थले ष्वष्ट सन्धेर्विद्यमान त्वात् कथमितिशङ्काया माह त्रिक्रमेष्विति|| त्रिक्रमेषु आद्यन्तयोः‍ द्वौर्द्वौसंधी आर्षसंज्ञकौ| अन्येसन्धयः अनार्षकाः|

यथा – उद्गाता-अरोहति-रोहति-रोहति-रोहत्या|| ओद्गाता-उद्गातो द्गाता-उद्गाता-अरोहति|| ऋचा-आसादयति-सादयति-सादयति-सादयित्या| अर्चा-ऋचर्चा-ऋचा-आसादयति – इत्यादि || ५ ||

मूलम्||

पदद्वय मनुक्रम्य व्युत्क्रम्योत्क्रम्यसन्धिमत्|| यथावत्स्वर संयुक्तं प्रयुंज्यात्सा जटामता || ६ ||

 व्याख्यानम्||

जटास्वरूपं प्रति वचनान्तरमप्याह पदद्वयमिति|| प्रथमं पदद्वय मनुक्रम्य-अनुक्रमः आर्षः, पुनः‍व्युत्क्रम्य-व्युत्क्रमः‍विलॊमः, पुनश्च उत्क्रम्य, उत्क्रमः अनुलोमः‍क्रमः, वदेत्|| प्रथमं ‍पदद्वय मनुक्रम्य पुनः उत्क्रम्य पुनश्च उत्क्रम्य प्रातिशाख्योक्त सन्धिमनतिक्रम्य स्वरसहितं ‍प्रयुंज्यात्| यथा|वदन्त्य कूटया कूटया वदन्ति वदन्त्य कूटया|| इत्यादि || ६ ||

मूलम्||

न्यायादनुग्रहाद्यच्च दृष्टास्ताद्यत्तदुच्यते|| विलोमेन्यायतः ‍प्राप्ति स्सन्धि रित्यभिधीयते || ७ ||

व्याख्यानम्||

अथसन्धि स्वरूपमाहन्याया दित्यादि| न्यायतः‍प्रमाणतः‍दृष्टान्त त्वेन यत्प्रतीयते तद्विलोमे जटाकाले तादृशस्सन्धिरभि धीयत इत्यर्थः || ७ ||

 मूलम्||

यत्रार्षे ऽनुद्भूतसन्धि र्जटाया मुद्भवेद्यदि|| तद्ब्राह्मणा रण्यकोक्त सन्धिर्दृष्टान्त उच्यते || ८ ||

व्याख्यानम्||

अथ दृष्टान्तस्य लक्षणमाह|| यत्रेत्यादि|| यत्र आर्षे अनुद्भूतसन्धिः-उद्भूत सन्धिर्न भवतीत्यनुद्भूत सन्धिः जटायां‍ उद्भवेद्यदि सः ‍अरुण ब्राह्मणे दृष्टान्तत्वेन उच्यत इत्यर्थः|| यथा नृषदेवड्वणृषदे नृषदेवट् || ८ ||

 मूलम्||

सकृदादि र्द्वितीयं द्विः पठेच्चादि पदं सकृत्||सन्धितः ‍क्रमवच्चेति प्रोच्यते साजटाबुधैः || ९ ||

व्याख्यानम्||

अथ जटोच्चारण प्रकारमाह सकृदादि रित्यादि|| आदि पदं ‍सकृत् द्वितीयं‍ द्विरावृत्तिः- पुनरादिपदं सकृत्-अनन्तरं‍ क्रमवत्सन्धिः ‍इति जटा बुधैः प्रोचते|| यथा|| उपोपेदि दु पोपोपोपेत् || ९ ||

मूलम्||

त्रिक्रमस्य जटाज्ञेया ह्युक्तापूर्वं क्रमं तथा|| पुनरन्तं मध्यंचादि पुनराद्यन्तरं परम् ||१०||

व्याख्यानम्||

अथ त्रिम्रमस्थले जटाप्रकारमाह त्रिक्रमस्येति|| त्रिक्रमस्थले आदौ क्रममुक्त्वा अनन्तरमन्तं पदं पुनर्मध्यं पदं तदनन्तरं आदिपदं पुनश्च आदिपदं तदनन्तरं मध्यंपदं तदनन्तरं अन्तपदं चेत्युक्तं-सेयं त्रिक्रमस्य जटा ज्ञातव्या|| यथा||भूत्वाहरडहरदाभूत्वा भूत्वाहरत् ||१०||

मूलम्||

पदत्रयं समारूह्य त्रिक्रमेतु ससंधिकं|| अवरूह्य यथान्यायं पुनरारोहणं स्मृतम् || ११ ||

त्रिक्रमेतु पदानां हि त्रयाणा मवरोहणम्|| तथैवारोहणम् तेषां पश्चादानवमं तथा || १२ ||

पदद्वयं षट्पदंच तथानवपदं वदेत्|| स्वरवर्णा विशेषेच विशेषे त्रिक्रमेक्रमात् || १३ ||

व्याख्यानम्||

पदद्वयं षडावृत्ति र्भवति| त्रिक्रमस्थले तथा नव पदं वदेत् || १३ ||

मूलम्||

स्वरवर्णादभेदस्य यत्पदद्वितयस्यच||  जटाविचक्षणैरुक्तं‍ क्रमोच्चारणमेवहि || १४ ||

इति परिभाषा||

व्याख्यानम्||

स्वरवर्णाभ्यां अभेदः‍ पदद्वये यदि तत्र जटाविचक्षणैः‍ क्रमोच्चारण मेवह्युक्तम्|| यथा|अदन्त्य दन्ति नमो नमः|| स्वरा भेद इतिकिम्||  असूर्ता सूर्ता सूर्ता सूर्ता सूर्ता सूर्ता || १४ ||

इति परिभाषा प्रकरणम्||

मूलम्||

लोपा ऽलोप षत्वणत्व यत्वादेशागमादिषु|| संहितायां यथाप्राप्तिर्जटायां तद्वदेवहि || १५ ||

व्याख्यानम्||

लोपश्च अलोपश्च षत्वंच णत्वंच यत्वादेशश्च आगमाश्च-आदिशब्देन विसर्जनीयादयो गृह्यन्ते| एषु|| संहितायां यथाप्राप्तिः जटायांच तद्वदेवेत्यर्थः|| यथा|| अङ्गिरोभ्य स्स्वाहास्वाहा ङ्गिरोभ्यस्स्वाहा|| अश्वऋषभ ऋषभो अश्वोऽश्व ऋषभः|| अस्त्ववरेभ्योऽवरेभ्यो अस्त्वस्त्ववरेभ्यः|| सोमप्रतिप्रतिषोम स्सोमप्रति||एवमिन्त्र इन्द्र एण मेन मिन्द्रः|| अनुष्टुभापरि पर्यणुष्टुभा नुष्टुभा परि|| आदिशब्देन यथा||स्यप्रप्रस्यस्यप्र|| सह्यत्यसुष्टु बनुष्टु म्नह्यति नह्यत्यनुष्टुप् || १५ ||

मूलम्||

यानग्नयोऽन्व तप्यन्तेत्यत्र पूर्वं कृतेयणि||  लोपाभावेग्नय इति निमित्तग्रहणम् कृतम् || १६ ||

व्याख्यानम्||

अन्वतप्यन्तेत्यत्रपूर्वं ‘इवर्णोकारौ यवकारौ’ (प्रा १-१०-१५) इति यणादेशेकृते ततः ‘अग्नयः’ इति ग्रहणस्य उदाहरणाभावात् पुनश्च लोपप्राप्त्यर्थं‍अग्नयः (प्रा १-१२-१८) इति ग्रनणम् नियमार्थं|| यथा|| अग्नयोऽ न्वतप्यन्ता न्वतप्यन्ताग्नयो अग्नयोऽन्वतप्यन्त || १६ ||

मूलम्||

ग्रहणं त्वेकमुद्दिश्य पदंवै क्रियते यतः|| तदन्यत्रतु नग्राह्यं यज्जटाभिमतैरिति || १७ ||

व्याख्यानम्||

एकं पदमुद्दिश्य गृह्यतेयदि तदन्यत्र नग्राह्यमिति जटाभिज्ञैरुक्तम्|| एतद्वचनं ‘अन्वतप्यन्त’ इत्येतावन्मात्र विषयकम् || १७ ||

मूलम्||

तथैवाश्वाजनीत्यत्रा प्येकादेशेकृते ततः|| आकारश्रुति सम्प्राप्ति स्तस्माल्लोपो विलोमके || १८ ||

व्याख्यानम्||

अश्वाजनीत्यत्रापि अन्वतप्यन्ते त्यत्रवदेवेत्यर्थः|| एकादेशेकृते आकारश्रुतौ प्राप्तौसत्यां विलोमे जटाकाले लोपएव||  यथा – अश्वाजनि प्रचेतसः प्रचेतसोऽश्वाजन्यश्वाजनि प्रचेतसः|| अत्र शिक्षाकाराः “अश्वाश्रुतिश्चयः ‍प्रोक्तः ‍पदे खण्डेच तंविदुः|| समासेनैव विज्ञेयो दृष्टोऽश्वाजनि कथ्यते”||  इति समासपदे अलोप एवेति|| अश्वाजनिप्रचेतसः‍ प्रचेतसो अश्वा जन्यश्वाजनि प्रचेतसः|| (इति पठान्तरं न बहु जनसम्मतम्) || १८ ||

मूलम्||

तथेयातां ब्राह्मणाये त्योपेत्यक्षर संहिता||  तत्रापि पूर्वप्राबल्या दैकारोऽत्रन संभवेत् || १९ ||

व्याख्यानम्||

अश्वाजनीत्यत्र यथा तथैवेत्यर्थः||  एयातां ब्राह्मणायेत्यत्र “तत्रपूर्वं” (प्रा १-५-७) इति न्यायेन ‘दीर्घंसमानाक्षरे सवर्णपरे’ (प्रा १-१०-२) इत्येकादेशेकृते तदनन्तरं इवर्णपर एकारं’ (प्रा १-१०-४) इति एकारोभवति||यथा||एयातां ब्राह्मणाय ब्राह्मणाये यातामेयातां ब्राह्मणाय||  पुनरेत्येत्यपुनः पुनरेत्य|| अत्र शिक्षाकाराः‍ एयातां ब्राह्मणायात्र त्वेकारस्सन्धितो भवेत्||  परवर्णं प्रसक्तंचे द्गणसातो निषिद्ध्यते||इति एयातां ब्राह्मणायेत्यत्र एकार एवेति|| यथा – एयातां ब्राह्मणाय ब्राह्मणायैयाता मेयातां ब्राह्मणाय||  अस्यवचनस्य बह्वनङ्गीकारा दनङ्गीकार एव || १९ ||

मूलम्||

चत्वेप्राप्तेशकारस्य वर्णक्लिष्टेततःपरम् नकारः प्राकृतस्तस्मा च्छ्नथद्वृत्रमितिस्थितिः || २० ||

व्याख्यानम्||

श्नधद्वृत्रमिति जटायां‍ “तकारश्चकारं‍शचछ परः” (प्रा १-३-२२) इति चत्वेप्राप्ते “स्फर्शपूर्वश्शकारश्छं” (प्रा १-३-३४)‍इति छत्वप्राप्तिः||  जटाकाले शपूर्वत्वा भावान्नकार न्नापद्यते प्राकृत नकार इत्यर्थः||  यथा – श्ञथद्द्वृत्रं वृत्रग्ग्ं श्ञथ च्छ्नथद्वृत्रं || २० ||

मूलम्||

अनुशब्दे ह्युकारस्य वकारे वैकृतेस्थिते||  जटायां नैवलॊपस्स्यादकारस्येति निर्णयः || २१ ||

व्याख्यानम्||

अन्वित्यस्य पदस्य “इवर्णोकारौ यवकारौ” (प्रा १-१०-१५) इति उकारस्य वकारादेशस्थले जटायां नैव लोपः स्यात् ककारस्येति निर्णयः‍ यथा|| अनुगावो गावो अन्वनुगावः || २१ ||

मूलम्||

अनुशब्दे ह्युकारस्य वकारे वैकृतेस्थिते||  जटायां लोप एवस्या द्यथासंहित मन्तरा || २२ ||

व्याख्यानम्||

अनु शब्दे ह्युकारस्य पूर्वश्लोकवत् वकारे वैकृतेसति संहितायां यथा लोपप्राप्तिः तथा लोप एव स्यात्||  यथा – गावोऽन्वनुगावो गावोऽनु || २२ ||

मूलम्||

ह्रस्वभाजां तु सर्वेषां ह्रस्वता पूर्वपौरुषे|| आदावन्तेच दीर्घस्या न्मध्यमुत्तम पौरुषे || २३ ||

व्याख्यानम्||

ह्रस्वभाजां सर्वेषां पदानां पूर्वपौरुषे ह्रस्वताविज्ञेया|  ह्रस्वभाक्छब्देन “अथादावुत्तरे”‍(प्रा १-३-१) इत्यादि|| जटाकाले उत्तरपौरुषे आदावन्तेच दीर्घस्यात्||  तन्मध्ये ह्रस्व इत्यर्थः|| पूर्वपौरुषे यथा हिष्ठस्थहिहिष्ठ|| उत्तरपौरुषे यथा – स्थामयोभुवो मयोभुवःस्थ स्थामयोभुवः|| स्थामयोभुव इत्यत्र स्थशब्दस्य द्वितीयोच्चारणेतु दीर्घः प्रसज्येत|| उत्तर पदेन विभागाभावात्| इति त्रिभाष्यरत्न कारेणोक्तम्|| “अथादावुत्तरे”‍इति (प्रा १-३-१) सूत्रव्याख्याने || २३ ||

मूलम्||

यस्यार्षे प्रग्रहत्वंच तस्यैवानार्षके भवेत्||  उक्तलक्षण भावेपि पौरुषे नभवेत्क्वचित् || २४ ||

व्याख्यानम्||

अर्षे यस्यप्रग्रहत्वमस्ति आनार्षेपि तस्यैव प्रग्रहत्वंभवति|| उक्तलक्षणेति उक्तलक्षणंनाम प्रातिशाख्ये अथप्रग्रहाः (१-४-१) इत्यध्याये यदुक्तं तत्प्रकारेणेत्यर्थः||  पौरुषे विशेषो नभवेत्||  यथा – अन्तर्भरिष्यन्ती भरिष्यन्ती अन्तरन्तर्भरिष्यन्ती|| आर्षे प्रग्रहत्वमितिकिम्||  तावब्रूताग्ंसर्वे||  आस्तांते इत्यत्र जटाया मार्षनियम प्राप्तिः – नैतदिष्टम् || २४ ||

मूलम्||

प्रधानं वा निमित्तं वा द्विपदग्रहणं यदि|| व्युत्क्रमे सर्वतोग्राह्यं क्रमे तत्रैक देशतः || २५ ||

व्याख्यानम्||

प्रधानं कार्यभागिति यावत्|| निमित्तंवा यत्रकुत्रचित् स्थले द्विपदग्रहणं यदि तत्र व्युत्क्रमे जटाकाले द्विपदं सर्वं ग्राह्य मित्यर्थः||  क्रमे तत्र एकदेशतः ‍कार्यं‍भवतीति विज्ञेयम्||  यथा – नोऽग्नयो अग्नयोनो नोऽग्नयः||  अग्नयः  पप्रयः‍ पप्रयोअग्नयो ऽग्नयःप प्रयः || २५ ||

मूलम्||

पदद्वयनिमित्तं यदेकाभावेपि तत्रतु||  संहितावत्क्रमोज्ञेय स्तद्वत् ज्ञेया जटाबुधैः || २६ ||

व्याख्यानम्||

यत्रयस्मिंस्थले यत्पदद्वयनिमित्तं तत्रजटाकाले एकाभावेसति तत्र तावत्संहितावदुक्तम्||  यथाइन्द्रणो न इन्द्रेणः||  अत्र संपूर्वत्वाभावेपि भवति || २६ ||

मूलम्||

चादीनामेव वोलोपो मोलोपो क्विप्परस्यतु|| उदः परस्सलोपस्तु सस्मिंस्थास्तंभुकेसति || २७ ||

व्याख्यानम्||

चादीनां अव्यया नामित्यर्थः| तत्र एव वोलोपो वकारलोप इत्यर्थः||  अक्विप्सरे मकारलोपः| उत्पूर्वो व्यंजनपर स्सकारलोपः||  स्थास्तंभ्वोरेवेति व्याकरण शास्त्रेणैवोक्तम्|| वकारलोपो यथा||  न्वैवैनुन्वै||  त्वैवै तुत्वै||

तुनुपूर्व उदात्त योर्वकारः‍(प्रा १-५-१३)  इति वकारलोपः||

अव्ययानातिकिम्||वरुणस्तु तुवरुणो वरुणस्तु||  वसतु नु नुवसतु वसतुनु||  मकारलोपो यथा – प्रत्युष्टग्ंरक्षः‍तग्ंषडहानि|| तेफोष्मपरः (प्रा २-१-२) इति मकारलोपः||  सकारलोपो यथा – स्थानादुदु त्थानात् स्थानादुत्| उत्तंभनंवै उत्पूर्वस्सकारोव्यंजनपरः||  (प्रा १-५-१४) इति सकारलोपः||  स्थास्तंभ्वोरितिकिम्|  स्वा युषोदुत् स्वायुषा स्वायुषोत्||  स्तोममुदुत्स्तोमग्ं स्तोममुत् || २७ ||

मूलम्||

उत्पूर्वस्य सकारस्य व्यंजने लोप इष्यते|| पूर्वत्र तुन्वोस्थितयोर्यल्लोपस्त्वव्ययेस्थिते || २८ ||

लोपाभावो मकारस्य क्विबंतेराजतौ परे|| तेषामेव प्रसिद्धत्वादविशेषेणसूचितम् || २९ ||

तेषामेवविलोमेपि नान्येषां सविधिस्मृतः|| अवग्रह मकारो य स्संसामिति नलुप्यते || ३० ||

सविज्ञेय इति प्राज्ञस्ततोन्यत्र न सम्भवेत्||

व्याख्यानम्||

अवग्रहेति अवग्रहस्थो योमकारः‍सं सां इत्येवं पूर्वोन लुप्यते|| यथा – साम्म्राज्याय – सम्राजोः|| (नसंसामिति तुरापरः, प्रा २-१-४ इति मकारलोप निषेधः) अवग्रहेतिकिम्|| तोतेरायस्सन्देवि||  इत्यत्र जटायामयं प्रतिषेधोनभवति|| इति कारेणार्थान्तरं सूचयति|  यथा – रायस्सग्ं सग्ंरायो रायस्सं|| राज्ञेसग्ं सग्ं राज्ञे राज्ङेसम्|| राष्ट्रेण सग्ं सग्ं राष्ट्रेण राष्ट्रेणसम्||  ततः अन्यत्रन संभवेदित्यर्थः || ३० ||

मूलम्||

योलोप स्सोत्तरस्तिष्ठन्येकया ग्रहणे तथा||  इत्येकमितिमोलोपोन निमित्त मपेक्षते || ३१ ||

व्याख्यानम्||

योलोपः ‍यकारस्यलोपोयः‍ सः ‍तिष्ठन्ति शब्द पूर्वश्चेत् एकयाग्रहणे यकारस्य लोपोभवति|| यथा – तिष्ठन्त्यै कैकयै कैकया तिष्ठन्ति तिष्ठन्त्येकैकया||

तिष्ठन्त्येकया सपूर्वः‍ ‘प्रा १-५-१९’ इति आकारसहित यकारलोपः‍जटाकाले तिष्ठन्ति शब्द विशिष्टा भावेपि स्यात्|| यथा – एकैकया स्तुतया स्तुतयै कैकयै कैकया स्तुतया|| इति शब्द विशिष्टे एकमित्यस्मिन् ग्रहणे मकारलोपः||  यथा – इत्येकैक मेकैक मितीत्येकैकम्|| (आवग्रह इत्येकम् ‘प्रा १-५-१८’ इति मकारलोपः) अत्रापि निमित्तं ना पेक्षते|| जटायां||यथा – एकैकं‍ तस्य तस्यैकैक मेकैकं तस्य || ३१ ||

मूलम्||

पृक्तादपृक्ते दीर्घस्याद्गुणो वर्णाद्भवेद्यदि || ‍३२ ||

तस्मात्तदुभयो दीर्घेर्भवेदन्यत्र वागमः|| अथवादेश ऊभाव स्तत्तस्मात्सांहिते पिच || ३३ ||

व्याख्यानम्||

‘एकवर्णः पदमपृक्तः’ (प्रा १-१-१४) इति प्रातिशाख्येयदुक्तं तदपृक्त संज्ञा – अपृक्त इति व्यञ्जनेन असंयुक्त इत्यर्थः|| पृक्तेच अपृक्ते संयोगे दीर्घस्यात्||  अवर्णात्परो यदिगुणो भवेत्|| यथा – उपातुपातू पातु|| उयन्तु यस्तू यन्तु|| ऊषु सूषु|| ऊनुनूनु||  ऊतुतूतु (दीर्घं समानाक्षरे सवर्णपरे) (प्रा १-१०-२) इति दीर्घः||  अवर्णात्परो यथा – उत्वात्ववुत्वा||  उहोता हॊत वुहोता||

उभयत्रापि जटायां अकारस्य उकारस्यच (उवर्णपर ओकारम्|| प्रा १-१०-५ इत्योकारः) तस्यस्वरपरत्वात् (ओकारोऽवम्|प्रा १-९-१२)‍इत्यवादे शश्च||

तत् – तस्मात् – इत्येताभ्यां पूर्वः‍ अपृक्तोकारपरोपि जटाकाले दीर्घमाप्नोति|| यथा – तदूतत्तदु|| तस्मादूतस्मात्त स्मादु|| एतद्व्यतिरिक्तस्थले वकारागमो यथा – स‌उवुसस‌उ || ३३ ||

मूलम्||

अयोध्वर्योक्रतो पूर्वोलोपस्यादप्यसांहिते| लुप्तो यदि भवेदार्षे क्रियते नान्यथा बुधैः || ३४ ||

व्याख्यानम्||

अयो|  अध्वर्यो| क्रतो| इत्येवं‍ पूर्वस्य अकारस्य जटाकाले लोपस्स्यात्||  सच आर्षो यदि लुप्तोभवति||  यथा – अदब्धायोऽश्रिततनो अशीततनो अदब्धायोऽदब्धायोऽशीततनो||  अद्ध्वर्योऽवेरवे रद्ध्वर्योऽध्वर्योऽवेः शतक्रतो न्वनु शतक्रतो शतक्रतोनु||  गाहमानो जायमानः (प्रा १-१२-८)‍इतिलोपः||  आर्षेलोप इतिकिम्||  घृतवती मध्वर्यो अध्वर्यो घृतवतीं घृतवतीमध्वर्यो||  अध्वर्यो स्रुचग्ं स्रुचमध्वर्यो अध्वर्यो स्रुचम्|| नान्यथा बुधैरिति आयो|  अध्वर्यो|  क्रतो इत्येतद्व्यतिरिक्त प्रग्रह इत्यर्थः|  यथा अवसातस्त भा नेतस्तभाने अवसातस्तभाने||(यंत्रन्दसी अवसातस्तभाने) || ३४ ||

मूलम्||

षत्वणत्वविकारेतु यदुक्तमुपदेशतः ग्रहणं तत्करो त्येतत्कारं‍ सर्वत्रनान्यथा || ३५ ||

संहितावत्क्रमोज्ञेयो जटा चविकृतादिषु|| विकारागमलोपेषु यथासंहितकार्यभाक् || ३६ ||

व्याख्यानम्||

प्रातिशाख्ये (अपिविकृतम्|| १-१-१५) इति सूत्रेयदुक्तं-तदुक्तं जटाकालेपि-विकारश्च-आगमश्च-लोपश्च-तेषु विकारागम लोपे ष्वित्यर्थः|| जटाकालेपि संहितावदित्यर्थः|| विकारो यथा-निर्णेनेक्ति नेनेक्तिनिर्णि र्णेनेक्ति|| निशितायां निर्णिर्णिशितायांनिः|| (षूषूकृधि प्रा १-७-२) इत्युभयत्रापिणत्वं|| आगमोयथा षडक्षरेणाक्षरेण षट्थ्वडक्षरेण|| (टनकारपूर्वश्च तकारः प्रा १-५-३३) इतितकारागमः||  लोपोयथा – सुपर्णोस्यसिसुपर्णः सुपर्णोसि|| (असि प्रा १-१२-२) इतिलोपः || ३६ ||

मूलम्||

निमित्ति प्रतिषेधेतु ननिमित्त बलाद्विधिः|| इङ्ग्यभेदेत्व संख्याने विधिर्न प्रतिषेधभाक् || ३७ ||

व्याख्यानम्||

निमित्ति प्रधानं|  प्रतिषेधेतु निमित्त बलाद्विधि र्नोच्यते||  असंख्याने-असंख्यान विषय इत्यर्थः|  विधिर्नभवति-प्रतिशेधभाक् स्यात् || ३७ ||

मूलम्||

यथा पुनःकृधिबलान्न सत्वविधिरिष्यते प्राधान्यात्पुनरित्यत्र निमित्तत्वात्क्रधेरिति || ३८ ||

व्याख्यानम्||

यथा पुनः‍ कृधिबलात्सत्वविधिर्नेष्यते – पुनरित्यत्र प्राधान्यात् कृधिरिति निमित्तत्वात्||  एतद्वचन मनिष्टम् || ३८ ||

मूलम्||

कृद्ध्युत्तरे पुनश्शब्दाद्विलोमे सत्वमिष्यते|| नाद्ध्वरंचेतिसूत्रेणावग्रहस्थोनिषिध्यते || ३९||

व्याख्यानम्||

कृद्ध्युत्तरेसति पुनश्शब्द विसर्जनीय स्सत्वमापद्यते|| (नाद्ध्वरम्|| प्रा १-९-३२) इति सूत्रेण अवग्रहस्थस्यैव पुनश्शब्द विसर्जनयस्य सत्वम् निषिध्यते|| यथा – कृधि पुनः पुनस्कृथिकृधि पुनः‍(कृधिपिन्वपथेपरः|| प्रा १-८-२५) इति सत्वम्|| ननु कृधिशब्दश्य सूत्रान्तर निषेधोस्ति|| कृद्ध्युत्तरे (धषवति प्रा १-८-३३) इति निषेधस्य विद्यमानत्वात् इतिचेत् उच्यते|| “धसवति निषेधस्य विश्वतः‍ क्षत्र मत्रच||  पदेचेङ्ग्यपदे नित्यन्ना विस्सूत्रेकृधीतिच||” अस्यार्थः विश्वतः‍ क्षत्रं‍ इत्यत्र विसर्जनीयः‍ क्षपरे सत्वं नप्राप्नोति||  ‘धषवति’ इतिनिषेधात् “विश्वतः” (प्रा १-८-३२) इति ग्रहणस्य कण्ठोक्तत्वेपि – धषवति इति निषेधस्यच आर्थिक त्वेपि जटाकाले कण्ठोक्तमप्रयोजकं आविः‍ प्रा १-८-३४ इति सूत्रेकृधि शब्दस्यैव एवं‍ ‘धषवति’ इति निषेधोनस्यात्||   तथाच कृथि पुनरित्यत्र सत्वनिषेधोन  ||३९||

मूलम्||

सत्वेकार स्वरोपत्वं दीर्घस्या प्युपलक्षणम्|| पत्नी वेग्रहणात्किंच ग्नास्पति स्तत्र दर्शनात् || ४० ||

व्याख्यानम्||

सत्वविधौ अकार पूर्वत्वरूपं (कखपकार – प्रा १-८-२३) इत्यत्र अकारः|| दीर्घस्यापुप्यलक्षणं‍भवतीति||  तत्रहेतुः|| ‘पत्नीवे’ प्रा १-८-२७|| ग्रहणादिति|| रेतोधाः|| पत्नीव इत्यत्र अतीव्याप्तिवारणार्थं वेग्रहणंकृतम्|| यथा – पते धनदा धनदास्पते पतेधनदाः||  पतिः पृथिव्याः पृथिव्यास्सतिष्पतिः पृथिव्याः|| उभयत्रासि (पत्नीवे) इति सत्वम्|| किंच| ग्नास्पतिस्तत्रदर्शनात् इति यथा – नरा श॓ सो ग्नास्पति र्नोअव्यात् || ४० ||

मूलम्||

उदथेत्यत्रदीर्घस्तु ह्रस्वस्याप्युपलक्षणम्|| तथा प्रपर इत्यत्र ह्रस्वोदीर्घोपलक्षणम् || ४१ ||

धषवति निषेधस्स्या द्विश्वतः‍ क्षत्रमत्रच|| पदेचेङ्ग्यपदे नित्यन्नाविस्सूत्रे कृधीतिच || ४२ ||

कखपेषन्तथा वर्णपूर्वस्संयात्यवग्रहः|| अत्र देवरिषश्चाविर्निरिडश्शश्वतोपसः || ४३ ||

व्याख्यानम्||

उदथापरश्च (प्रा १-९-२४) इत्यत्रदीर्घग्रहणं‍ह्रस्वस्याप्युपलक्षणम्||  तथा परिवाप्रपरः|| (प्रा १-८-३४) इत्यत्र ह्रस्वग्रहणम् दीर्घस्यापुप्यलक्षणं भवतीति भाष्यकारेणोक्तत्वात्||यथा – विद्वानथा थविध्वान् विद्वानथ|| बहिः प्राणोवै|| “परीपरि” प्रा १-७-४ इति णत्वम्|| प्राञ्चौनिर्णिष्प्राञ्चौ प्राञ्चौनिः|| आत्माना परानिष्प्र शुक्रशोचिषा|| “अविर्निदिडः” प्रा १-८-२४ इति षत्वम् || ४३ ||

मूलम्||

यत्रस्यान्महि सृज्यद्ध्वं तत्रषत्वंन पौरुषे| ऋतवः प्रतिषेधाच्च महि सप्तच दर्शनात् || ४४ ||

व्याख्यानम्||

मधुमतीभिस्सृज्यद्ध्वं महिवर्च इत्यत्र पौरुषे षत्वं नभवति||  “ऋकाररेफवति” प्रा १-९-८ इति निषेधात्|| “महि” प्रा १-६-४ इति विधिः कण्ठोक्तः|| ऋतवः सामान्यः|| पौरुषे कण्ठोक्तस्य प्राबल्याभावात् षत्वं नस्यादिति वाच्यम्|| महिसप्तचदर्शनात्|| यथा – सृज्यद्ध्वं महि महि सृज्यद्ध्व॓ सृज्यध्वंमहि|| दृष्टान्ते यथा – महि सप्तदशेना वस्युवाताः || ४४ ||

मूलम्||

ऋकार रेफयुक्तेपि सिश्शब्द आयुरत्रच|| षत्वमेव प्रसज्येत माहिषेयेण भाषितम् || ४५ ||

व्याख्यानम्||

निश्शब्दे आयुश्शब्देवा विसर्जनीयः तकारपरो ञटाकाले ऋकार रेफयुक्त इतिषत्वंनभवतीतिचेत् “सकारान्ततुमूलतः” इति वचनेन पुनः महिषेयमतानुसारेणैव षत्वमेव भवतिः|| यथा – तृतीयं निर्णिष्टृतीयं तृतीयंनिः|| त्रिष्टुगायुरायुष्ट्रिष्टुक्त्रिष्टुगायुः|| तस्मादायुरायुष्टस्मात्तस्मादायुः|| एषां – रासस्सप्ते प्रा १-६-५ इति षत्वम् || ४५ ||

मूलम्||

कण्ठोक्तार्थिकयोर्यत्र विरोधस्फूर्यतेक्वचित्|| कण्ठोक्तस्तु बलीयान्‌ स्या दाविश्शब्दस्तु साधकः || ४६ ||

व्याख्यानम्||

अयं श्लोकः आर्षे – नतु पौरुषे|| अन्यथा “ननिः” प्रा १-८-३५ इति सूत्रं व्यर्थमापद्यते || किंच|| प्रकृतसूत्रस्य आर्षविषयत्वमेवात्र परमं निदानं|| यदि पौरुषेपि कण्ठोक्तस्य प्राबल्यं स्यात्तर्हि आर्थिकस्य रेफवतः‍ अप्राधान्यात् कण्ठोक्तस्य निरित्यस्य प्राथान्यादेनेष्ट सिद्धौ तत्सूत्रमनारम्भणीयं – अतो विज्ञायते – पौरुषे कण्ठोक्तस्य प्राबल्यंन – इतीतिभावः || ४६ ||

मूलम्||

अन्वारभ्यान्यमन्तं‍ चेत्यत्रणत्वंप्रसज्यते|| यस्मात्पर्यादि पूर्वत्वं तथापिनवदन्तिहि || ४७ ||

व्याख्यानम्||

अन्वारभ्य – अन्यं – अन्तं – एषु नकारस्य पर्यादि पूर्वत्वेपि णत्वं नभवति|| यथा – अन्वारभ्यपरिपर्यान्वारभ्यान्वारभ्यपरि|| अन्यंपरि पर्यन्यमन्यंपरि||  अन्तं प्रप्रान्तमन्तंप्र|| अत्र (पारीपरि परीप्रपूर्वः प्रा १-७-४) “अवर्णव्यपेतोपि” प्रा १-७-५ इत्याभ्यां प्राप्तिः || ४७ ||

मूलम्||

संहितावद्विधिं प्राप्तं बहवोनवदन्तिहि अध्येतारो जटाकाले तद्बह्वादृतमुच्यते || ४९ ||

शिक्षाच प्रातिशाख्यंच विरुध्येतां मिथोयदि|| शिक्षादुर्बल मित्याहुस्सिंहस्येव मृगिर्यथा || ४९ ||

व्याख्यानम्||

शिक्षायाः प्रातिशाख्यस्यच परस्परं विरोधे शिक्षादुर्बला भवतीत्यर्थः|| सिंहस्येव मृगीयथेति सादृश्यात् || ४९ ||

मूलम्||

प्राकृतौ प्रतिशाख्यंच बलीयस्त्वितिकीर्तितम्|| शिक्षाबलवतीचैव ह्यनार्षे सर्वसन्धिषु || ५० ||

जटायां वक्ष्यमाणायां कम्प सन्धि स्वरादयः अवधाय प्रकोक्तव्या निपुणेन द्विजेनतु || ५१ ||

ननूनं नृत्यनह्यत्य प्यन्यशब्दोन्यौच्चकः|| नकारो द्वित्यगोलक्ष्यात्तकारो र्ध्वोपि वान्तगः || ५२ ||

टपूर्वस्यनकारस्य णत्वंकुर्या द्विचक्षणः|| पूर्वं पश्चाट्टकारस्य यथावण्णमदर्शनात् || ५३ ||

व्याख्यानम्||

टपूर्वस्य नकारस्य पूर्वमेवविचक्षणोणत्वं कुर्यात्|| पश्चाट्टकारस्य “उत्तमपर‌उत्तमं सवर्गीयम्” प्रा १-८-२ इत्यनेन सूत्रेण णत्वंभवति|| यथा – न‌आनडानण्णोन आनट्|| न्यमार्डमार्‌ण्णन्यमाट् || ५३ ||

मूलम्||

सूत्रेष्वदृष्टं‍ यत्किंचित्सूत्रान्तरबलाद्भवेत्|| अनुक्तस्याविरुद्धस्यमतं ग्रहणमन्यतः || ५४ ||

व्याख्यानम्||

सूत्रेषु प्रातिशाख्यसूत्रेषु अदृष्टं यत्किंचित् सूत्रान्तरबलाद्भवेत्||  प्रातिशाख्ये अनुक्तं‍ अविरुद्धंच अन्यतः ग्रहणं मतम् ग्राह्यमित्यर्थः || ५४ ||

मूलम्||

टवर्गात्परभूतस्य लस्यदुश्लिष्टताभवेत्|| अन्यथाचे द्विरामाच्च द्वित्वाभावाद्द्विरुच्यते || ५५ ||

व्याख्यानम्||

टवर्गात्परो लकारो दुश्लिष्टसंज्ञोभवति|| ळकारमापद्यत इत्यर्थ:||यथा – लभतेविड्विळ्ळभते लभतेविट् || ५५ ||

मूलम्||

औत्वमोदौत्परेरन्तृ त्वारंप्रोपावपूर्वके| अमितंतस्वपाठेचिपदं स्यान्तोयथाषुषू || ५६ ||

व्याख्यानम्||

प्र, आ, उप, आन, इत्येवंपूर्वः‍ ऋकारः आरमिति विकारमापद्यते|| यथा – ऋतुनाप्रप्रातुर्नतुर्नास्र|| ऋजुमार्जुमृजुमा|| ऋतेनार्तेनर्तेना||  ऋतव्याउपोपार्तव्याऋतव्याउप|| ऋतूनामवावार्तूना मृतूनामव|| तुशब्दः इतरोपसर्गपूर्वत्वे आरंविकारं‍निवर्तयति|| यथा – ऋध्यते पापर्ध्यत ऋद्ध्यतेप || ५६ ||

मूलम्||

यस्यैवार्षेयत्यरेफौ स्यातांतत्रहि पौरुषे| सतिस्वरपरे तद्वन्निषेधोनान्यथाभवेत् || ५७ ||

व्याख्यानम्||

आर्षेयस्यपदान्त नकारस्य यत्वरेफौ स्यातां अनार्षेपितौ स्यातां|| तस्यैव पदान्त नकारस्य अन्यस्वरपरत्वेपि यत्वरेफौस्यातामित्यर्थः||यथा – अथासपत्ना॓ इंद्रोमे (प्रा १-९-२२) इतियत्वम्|| अथा – सत्नान्त्सपत्ना॓ अथाथासपत्नान्|| नान्यथाभवेदिति|| आर्षेनिमित्ते सति पौरुषे निमित्ताभावेपि यत्वरेफौस्यातां|| आर्षे निमित्ताभावे पौरुषे निमित्तेसत्यपि तौनस्याता मित्यर्थः|| ‘अथासपत्ना निंद्राग्नी’ – इत्यत्र आनुस्वारो नभवति|| यथा – आथासपत्नान्त्सपत्ना नथाथासपत्नान्|| आपोहविष्मान्हविष्मानाप आपोहविष्मान् || ५७ ||

मूलम्||

यत्वरेफौ विनान्यत्र ग्रहणं दृश्यतेयदि|| षत्वणत्वादिसर्वत्र कर्तव्यमनुलोमवत् || ५८ ||

व्याख्यानम्||

यत्वरेफौ विना अन्यत्र षत्वणत्वादिषु अनुलोमवत् कर्तव्य मित्यर्थः || ५८ ||

मूलम्||

यत्रयत्रच यत्वंस्यात्तत्रतत्वं तथाभवेत्||‍ निषेधश्चजटायांतु तत्रतत्र तथाभवेत्  ||‍ ५९ ||

आर्षेतिग्रहणाद्यत्र प्रकृतिस्संहिताभवेत्||‍ आद्यन्तयोर्जटायाम प्यार्षत्वात् प्रकृतिर्भवेत् || ६० ||

तथैवमिथुनीत्यत्र विलोमे यत्वमिष्यते||‍ संहिताया मभावेपि मिथुन्यष्टौच दर्शनात् || ६१ ||

व्याख्यानम्||

तथैवमिथुनेत्यत्र जटाकालेयत्वमिष्यते|| यथा – आथमिथुनी मिथुन्यथाथमिथुनी||‍ मिथुन्यष्टौचदर्शनात् || ६१ ||

मूलम्||

स्तोमाय ज्योतिरित्यत्र षत्वंसस्यनविद्यते|| अनवग्रहपूर्वत्वा द्विद्ध्यभावस्तथासति || ६२ ||

अप्रसक्ति र्निषेधस्य नप्रतिप्रसवः स्मृतः|| प्रति प्रसवतायस्य षत्वं तस्यैवनान्यथा || ६३ ||

सुवोरोहावेति यश्च तत्रलुप्तो विसर्गकः|| पुनर्ग्रहण सामर्थ्या दोत्वमाप्नोति रोत्तरे || ६४ ||

कृधिसुवः स्वानासश्चादिव्यधिकंनदोषभाक्|| अस्मिन्यज्ञे जटायांच ह्यग्नयः पप्रयोप्सुयः ||‍ ६५ ||

(एतद्वचनमनिष्टं) त्रिपदप्रभृतिन्यायो लोपालोपेषुविद्यते||‍ तत्रस्थ मन्ययुक्तंचे त्पूर्वधर्मोनविद्यते || ६६ ||

व्याख्यानम्||

लोपालोपेष्वेन त्रिपद प्रभृति न्यायः||‍ तत्रस्थ मन्ययुक्तं यदि तर्हिपूर्वधर्मो नविद्यते || ६६ ||

मूलम्||

त्रिपद प्रभृतिर्लोपालोपयोरेवसंभवात्|| नप्रग्रहोन यत्वादा वितिवेदविदोविदुः || ६७ ||

एदोद्भ्यां‍ वक्ष्यतेतश्च यदनेक पदे पुनः‍ जटोच्यतेन्यशब्देन तत्रानैक्यं‍ नविद्यते || ६८ ||

……………………………………. जटायांदृश्यते यदा|| अलोप लोपकार्याणि त्रिपदादौ तथोत्तरम् || ६९ ||

व्याख्यानम्||

एदोद्भ्यां एकार ओकाराभ्यां वक्ष्यते अकारः| जटाकाले त्रिपदव्यतिरिक्तपदेन युक्तंचेत् तत्र अनैक्यंन || ६९ ||

मूलम्||

प्रधानस्य तृतीयत्वं त्रिपदप्रभृति स्मृतम्|| ऋचि ब्राह्मण वाक्येषु ह्यलंद्वित्रिपदादिकं || ७० ||

पुनरुक्तंयतः‍ पंच पदमित्युत्तरंचवा|| पूर्ववद्भवति ज्ञेयं सर्वत्रापि विचक्षणैः || ७१ ||

परिव्या पुनरूर्जायन्नो स्यरातीयतोपिच सप्ततेपोअनुत्वग्ने त्वंगोमांश्चाथि रोचने|| चित्रंच भवतं द्रप्सस्सहस्व पुनरैक्यतः || ७२* ||

व्याख्यानम्||

अथ त्रिपद प्रभृति न्यायोदाहराणानि|| यथा – संपश्यामीत्यनुवाके| परित्वाग्ने पुरमिति वाक्यं| अग्निकाण्डे प्रथम प्रश्ने| इमामगृब्णन्नित्यत्रापि तथैव|| यथा – त्वाग्ने ग्नेत्वात्वाग्ने|| अग्नेपुरं पुरमग्ने ग्ने पुरं|| भूमि र्भूम्नेत्यनुवाके| पुनरूर्जानिवर्तस्व पुनरग्ने इति वाक्यं| विष्णोः क्रमोसीत्यनुवाके| अन्नपतइत्यनुवाकेच तथैव|| यथा पुनरग्ने ग्ने पुनः पुनरग्ने|| अग्न इषेषाग्ने ग्न इषा|| त्व॓ सोमेत्यनुवाकेः‍ अयंनो अग्निर्वरिव इत्येतद्वाक्यं|| यस्त्वा हृदेत्यत्रापि तथैव|| यथा – अग्निर्वरिवो वरिवोग्नि रग्नि र्वरिवः| आप्यायतां‍ ध्रुवेत्यनुवाके| विष्णोः‍ क्रमोस्यरातीयत इत्ये तद्वाक्यं|| विष्णोक्रमोसीत्यनुवाकेपि तधैव| यथा – अस्यराती|| यतो रातीयतो स्यस्य रातीयः| अरातीयतो हन्ता हन्ता रातीयतो रातीयतो हन्ता||

भूमि र्भूम्नेत्यनुवाके| सप्तते अग्न| इत्येतद्वाक्यं|| प्राचीमन्पित्यत्रापि तथैवभवति|| यथा – तेअग्ने ग्ने तेतेअग्ने|| अग्ने समिधस्समिधोग्नेग्नेसमिधः||

उरु॓हिराजेत्यनुवाके| अपोअन्वचारिषं इत्येतदाक्यं – यस्त्वाहृदेत्यनुवाके| अपोअन्वचारिषं इत्येतद्वाक्यं – यस्त्वाहृदेत्यनुवाके|| तथैव भवति|| यथा – अपो अन्वन्व पोपोअनु|| संपश्यामीत्यनुवाके|

अग्नेत्वन्नो अन्तम इत्येतद्वाक्यं|| अग्निर्मूर्धे त्यत्रापि तथैव|| यथा – नो अन्तमोन्तमोनोनोअन्तमः||

अगन्मसुवः‍इत्यनुवाके| गोमा॓ अग्ने इत्येतद्वाक्यं|| अग्नि नारयि मित्यत्रतथैवभवति|| यथा – गोमा॓ अग्नेग्ने गोमान्गोम॓अग्ने||

येदेवा यज्ञहन इत्यनुवाके तृतीयेलोके अधिरोचन इत्येतद्वाक्यं|| अग्निंयुनज्मीत्यत्रापि तधैवभवति|| यथा – अधिरोचने रोचने ध्यधिरोचने||

उदुत्यंजातवदसं इत्यनुवाके| अन्तरिक्ष॓ सूर्यआत्मा इत्येतद्वाक्यं|| नवोनवोभवती त्यत्रापितथैव|| यथा – अन्तरिक्ष॓ सूर्य स्सूर्योन्तरिक्ष मन्तरिक्ष॓सूर्यः||

इषेत्वोपपीरित्यत्र| भवतन्न स्समनसा वित्येतद्वाक्यं|| समित मित्यनुवाकेपि तथैव|| यथा – अद्यनोनोद्याद्यनः|| निग्राभ्या इत्यनुवाके|| द्रप्सश्चस्मन्देत्येतद्वाक्यं|| अभ्यस्थादि त्यनुवाके ध्रुवासीत्यनुवाकेच तथैव|| यथा – अनुयोयो न्वनुयः|| संत्वासिंचामीत्यनुवाके| सहस्वारातीयत इत्येतद्वाक्यं ध्रुवासी त्यनुवाकेपि तथैव| यथा – सहस्वाराती यतो रातीयत स्सहस्व सहस्वारातीयतः || ७२ ||

मूलम्||

पवस्वप्रतपास्सूर्यो परोग्ने द्यौस्तथा भवेत् || ७३ ||

आयुर्यज्ञेन चायुर्दावाजः प्राणम्मएवच|| येनाग्नेस्मिन् सधस्थेच वाज्यध्वन स्त्वनैक्यतः || ७४ ||

व्याख्यानम्||

अथालोपविषये त्रिपदप्रभृति न्यायमाहयथा| त्वमग्नेरुद्र इतियाज्यायां‍ इत्यत्र| अग्ने पवस्वस्वपा इत्येतद्वाक्यं| अगन्मसुवरित्यत यथा|| अस्मेवर्चोवर्चो अस्मे अस्मेवर्चः|| उभावा मिन्द्राग्नि इत्यत्र त्वमग्ने व्रतपा इत्येतद्वाक्यं| दैवींधियमित्यत्र यथा – त्वमग्ने अग्ने त्वंत्वमग्ने|| वाग्वैदेवेभ्य इत्यत्रमन्त्र ब्राह्मणत्वात्तथैवभवति||  उक्तान्ये वोदाहरणानि||  ध्रुवासीत्यत्र यास्ते अग्ने सूर्य इत्येतद्वाक्यं||  वयोवा अग्निरित्यत्रयथा|| ते अग्ने अग्ने ते ते अग्ने||  सूर्ये परैतिकिम्|| यास्ते अग्ने समिधोयानी त्यत्रलोपे जटाकाले यथा|  ते अग्नेऽग्ने तेतेअग्ग्ने|| इमामगृभ्णन्रशनामित्यत्र द्यौस्तेपृष्ठमित्येतद्वाक्यं|| त्रैंशिकप्रश्नेऽपि तथैव|| त्रैंशिकोनाम यदेकेनेत्यादयः त्रयः प्रश्नाः|| योवा अयथा देवतमति प्रश्ने यथा – अन्तरिक्ष॓ समुद्रस्समुद्रो अन्तरिक्ष मन्तरिक्ष॓ समुद्रः|| क्षत्रस्यो ल्बमसीत्यत्र आयुर्यज्ञेन कल्पतामित्येतद्वाक्यं|  गर्भाश्चम इत्यत्रयथा – कल्पतामपानो अपानःकल्पतां‍ कल्पतामपानः|| त्वमग्ने रुद्र इति याज्यायां आयुर्दाअग्न इत्येतद्वाक्यं|| तृतीयकाण्डे तृतीयप्रश्ने यथा|| आयुर्दाअग्ने अग्न आयुर्दा आयुर्दाअग्ने|| तस्मिन्ने वानुवाके आयुर्दाअग्ने हविषो जुषाण इत्यवभृथ मित्यत्रापि तथैवभवति ब्राह्मणत्वात्|| क्षत्रसोल्ब मसीत्यत्र वाजश्चप्रसवश्चे त्येतद्वाकं|| एकाचम इत्यत्रयथा| चापिजो आपिजश्चचापिजः|| ध्रुवक्षिति रित्यत्रप्राणम्म इत्येतद्वाक्यं|| इन्द्राग्नी अव्यधमानां|| भूय्कसृदसि इत्यनुवाक द्वयेऽपि यथा – अपानंमे मेअपान मपानंमॆ|| अग्निं युनज्मीत्यत्र येना सहस्रमित्येतद्व्याक्यं|| यदाकूतादित्यत्र यथा – येनाग्ने अग्नेयेन येनाग्ने|| येनासहस्रमित्यत्र परोग्ने चपुनस्तथा|| ऋक्षुब्राह्मण वाक्येषु ह्यलंद्वित्रपदादिकम्|| इतिवचनेनपरोग्न इति येनाग्ने दक्षिणायुक्ताः|| येनाग्ने सुकृतः इतिवाक्यद्वयेऽपि आलोप एव उच्यते|| यथा – येनाग्ने अग्नेयेन येनाग्ने|| अग्नेदक्षिणा दक्षिणा अग्ने अग्नेदक्षिणाः||  अग्नेसुकृत सुकृतो अग्ने अग्ने सुकृतः|| अन्ययुक्तत्त्वादत्रत्रिपद न्यायोनभवति|| अग्निं‍युनज्मीनत्यत्र अस्मिन्त्सधस्थ इत्येतद्वाक्यं||  यदा कूतादित्यत्र यथा – अस्मिन्त्सधस्थेसधस्थे अस्मिन्नस्मिन्त्सधस्थे|| इमामगृभ्णन्नित्यनुवाके आगत्यवाज्यध्वन इत्येतद्वाक्यं|| व्यृद्धंवा इत्यत्र यथा-वाज्यद्ध्वनोद्ध्वनोवाजी वाज्यद्ध्वनः|| ऐक्यं नभवतीत्यनैक्यं|| अलोप इत्यर्थः || ७४ ||

मूलम्||

क्रम्याद्ध्वनो भवत्यग्रे पावकोऽर्पयतीतिच|| विषयोऽङ्गिर इत्येव क्रम्येत्यादि चलुप्यते || ७५ ||

व्याख्यानम्||

जटाया मन्ययुक्त त्रिपद प्रभृतिन्यायमाह|| यथा – अध्वन आक्रम्या क्रम्याध्वनोऽध्वन आक्रम्य|| भवत्यग्रे ऽग्रेभवति भवत्यग्रे|| अर्पयति पावकः पावकोऽर्पयत्य र्पयतिपावकः|| विषये त्रिपद प्रभृति विषय इत्यर्थः|| यथा – अङ्गिर इतीत्यङ्गिरोऽङ्गिर इति|| अग्ने अङ्गिर इतीत्यत्र त्रिपद प्रभृत्यभावात्|| किन्तु अङ्गिरोऽप्सुयः (प्रा १-१२-१७) इति कण्ठोक्तत्वादलोप प्राप्तिः||  अङ्गिर इतीत्यङ्गिरोऽङ्गिर इति तंत्वासमिद्भिरङ्गिरइत्या हेत्यत्र|| अङ्गिर इतीत्यङ्गिरोऽङ्गिर इति || ७५ ||

मूलम्||

दधिक्राव्‌ण्ण रक्षाचमर्यश्री र्मन्वनेपिच ताअस्य हिरण्यगर्भ स्संचारण्य मनुत्वपि || ७६ ||

अश्वाजन्यग्नयश्चैवा प्यध्वर्यो वेरप्यथोभवेत्||

व्याख्यानम्||

उख्येता अस्यसूददोहस इतिवाक्यं त्रैंशिकेऽपि तथैव|| यथा अस्यसूद दोहसस्सूददोहसो अस्यास्यसूददोहसः|| हिरण्यगर्भस्स मवर्तताग्रे| आमुमारण्यमनुते| विधेमतेपरमे| इत्यादि मन्त्रब्राह्मण भेदेन यत्र यत्र दृष्टं तत्रतत्रापि तथैव || ७६ ||

मूलम्||

पुनरुक्तं यथोक्तंस्या त्पदपंचकमेवहि|| ७७ ||

यस्तामविद्वानित्यत्र ह्यनुस्वारागमो भवेत्|| अनार्षे नैवविज्ञेयोऽप्यकारादीति संग्रहः || ७८ ||

द्यौरहनी इतितु यन्निमित्तं‍दृश्यतेत्रवै|| णत्वंस्याद्भिन्न देशयस्थत्वा च्चैवनविद्यते || ७९ ||

अश्वाजन्यग्नयश्चैव चाध्वर्योऽपोअथो तथा|| श्रुतिग्रहण सामर्थ्यादात्रेयेणापिभाषि तम् || ८० ||

यदक्षरांग वर्णाश्च द्विविधा पदसंहिता|| इयंनानापदोक्तेव ह्युच्यतेपंच संहिता || ८१ ||

व्याख्यानम्||

स्पष्टोर्थः || ८१ ||


 

अथ फलश्रुतिः||

संहितांच पदंचापि क्रमंचैव जटांपठन्||

लक्षणज्ञस्तदाप्नोति ब्रह्मङ्ञानं‍ हिशाश्वतम्||

संहितापाठमात्रेण यत्फलं प्रोच्यतेबुधैः||

पदेतुद्विगुणं विन्द्यात् क्रमेतुच चतुर्गुणम्||

वर्णक्रमे शतगुणम् जटायांतु सहस्रकम्||

तथाच गौडपुराणे||

विद्यानामुत्तमा विद्या वेदविद्या समीरिता||

अथस्तद्दातुरस्त्येव लाभस्वर्गा पवर्गयोः||

विद्यानांच पराविद्या ब्रह्मविद्या समीरिता||

अतस्तद्दानतो राजन् सर्वदानफलं लभेत्||

तथा देवीपुराणे||

वेदएवद्विजातीनां साधनं श्रेयसः परम्||

ततस्स्वाध्यानाभ्यासात्परम् ब्रह्माधिगच्छति || १ ||

तमेवशीलयेत्प्राज्ञः शिष्येभ्यस्तं प्रदापयेत्||

तदभ्यास प्रदानाभ्यां तत्त्वं ब्रह्माधिगच्छति || २ ||

योनधीत्यद्विजोवेदा नन्यत्रकुरुतेश्रमम्||

सजीवन्ने वशूद्रत्व माशुगच्छतिसान्वयः || ३ ||

वेदविद्याविहीनस्य विद्याजालं निरर्थकम्||

कण्ठसूत्रविहीनायाः कामिन्याभूषणंयथा || ४ ||

आशिक्षितानांवेदेषु शास्त्राभ्यासो निरर्थकः||

किमस्त्यनुपवीतस्य वाजपेयादिभिर्मखैः || ५ ||

तथाचभविष्योत्तर पुराणे|

अपुत्रोलभतेपुत्र मधनोलभते धनम्|

वेदाध्ययनसंयुक्तः परेब्रह्मणिलीयते|| १||

अथयजुर्वेद स्वरूपमाह|

यजुर्वेदः पिङ्गलाक्षः कृशमध्योबृहद्गलः||

बृहत्कपोलः कृष्णाङ्घ्रिस्ताम्रः‍काश्यपगोत्रजः||

सभापर्वणि||

कृत्य्वापाठक्रमंचैवयजुर्भिर्निर्मलस्वरैः||

जटौपदविभागज्ञैरुच्यमानानेकशः|| १ ||

अनुशासनिक पर्वणि

संहितायांच सर्वस्यां स्थितस्योपस्थितस्यच||

पदद्वयक्रमस्यापि जटायाश्चसपारगः|| १‍ ||

योजटामात्रविद्ब्रह्मा सन्धिज्ञोविष्णुरुच्यते|

ईश्वरःसर्वसन्धिज्ञ इत्येवर्षिभिरीरितम्|| २ ||

इति जटामणि स्समाप्ता

यदक्षरपदभ्रष्टं मात्राहीनंतुयद्भवेत्|

तत्सर्वंक्षम्यतांदेव नारायण नमोस्तुते||

ओम् तत्सत् श्रीकृष्णार्पणमस्तु



Advertisements
Leave a comment

Leave a Reply

Please log in using one of these methods to post your comment:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s

%d bloggers like this: